recommended
Statistics
Plays Today
0
Plays Yesterday
0
Plays Total
96
Description
Isha Upanishad Chanting By Shruti Nada Poddar :
॥ ईशोपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शांतिः शांतिः शांतिः ॥
ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यतेनरे॥ २॥
असुर्या नाम तेलोका अन्धेन तमसाऽऽवृताः ।
ताꣳस्तेप्रेत्याभिगच्छन्ति येके चात्महनोजनाः ॥ ३॥
अनेजदेकं मनसोजवीयोनैनद्देवा आप्नुवन्पूर्वमर्षत्।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपोमातरिश्वा दधाति ॥ ४॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः ॥ ५॥
यस्तुसर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषुचात्मानं ततोन विजुगुप्सते॥ ६॥
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र कोमोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
स पर्यगाच्छुक्रमकायमव्रण-
मस्नाविरꣳ शुद्धमपापविद्धम्।
कविर्मनीषी परिभूः स्वयम्भू-
र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
ततोभूय इव तेतमोय उ विद्यायाꣳ रताः ॥ ९॥
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे॥ १०॥
विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥ ११॥
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।
ततोभूय इव तेतमोय उ सम्भूत्याꣳ रताः ॥ १२॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।
इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे॥ १३॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥ १४॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणुसत्यधर्माय दृष्टये॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य
व्यूह रश्मीन् समूह तेजः ।
यत्तेरूपं कल्याणतमं तत्तेपश्यामि
योऽसावसौपुरुषः सोऽहमस्मि ॥ १६॥
वायुरनिलममृतमथेदं भस्मांतꣳ शरीरम्।
ॐ क्रतोस्मर कृतꣳ स्मर क्रतोस्मर कृतꣳ स्मर ॥ १७॥
अग्नेनय सुपथा रायेअस्मान्
विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां तेनमौक्तिं विधेम ॥ १८॥
॥ इति ईशोपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।