Explore
Connect
View More Notifications
View More Messages
Notifications Settings
2022-12-04
Janak Kalyani
chanting
ISHA UPANISHAD CHANTING by SHRUTI
Like
Add
Share
11063
11
51
recommended
aurosuman
OM Chanting by Arun Amin
Janak Kalyani
Invocation To Ganesha - Shruti
aurosuman
Sri Aurobindo's Gayatri Mantra Chanting by Mohan Mistry
Statistics
Plays Today
0
Plays Yesterday
0
Plays Total
95
Description
Isha Upanishad Chanting By Shruti Nada Poddar :
॥ ईशोपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शांतिः शांतिः शांतिः ॥
ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यतेनरे॥ २॥
असुर्या नाम तेलोका अन्धेन तमसाऽऽवृताः ।
ताꣳस्तेप्रेत्याभिगच्छन्ति येके चात्महनोजनाः ॥ ३॥
अनेजदेकं मनसोजवीयोनैनद्देवा आप्नुवन्पूर्वमर्षत्।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपोमातरिश्वा दधाति ॥ ४॥
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः ॥ ५॥
यस्तुसर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषुचात्मानं ततोन विजुगुप्सते॥ ६॥
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र कोमोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
स पर्यगाच्छुक्रमकायमव्रण-
मस्नाविरꣳ शुद्धमपापविद्धम्।
कविर्मनीषी परिभूः स्वयम्भू-
र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
ततोभूय इव तेतमोय उ विद्यायाꣳ रताः ॥ ९॥
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे॥ १०॥
विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥ ११॥
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।
ततोभूय इव तेतमोय उ सम्भूत्याꣳ रताः ॥ १२॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।
इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे॥ १३॥
सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते॥ १४॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणुसत्यधर्माय दृष्टये॥ १५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य
व्यूह रश्मीन् समूह तेजः ।
यत्तेरूपं कल्याणतमं तत्तेपश्यामि
योऽसावसौपुरुषः सोऽहमस्मि ॥ १६॥
वायुरनिलममृतमथेदं भस्मांतꣳ शरीरम्।
ॐ क्रतोस्मर कृतꣳ स्मर क्रतोस्मर कृतꣳ स्मर ॥ १७॥
अग्नेनय सुपथा रायेअस्मान्
विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां तेनमौक्तिं विधेम ॥ १८॥
॥ इति ईशोपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शांतिः शांतिः शांतिः ॥
Categories
#isha
#upnishad
#chanting
#shruti
Report
Share
Embed
Share on Social Networks
Share URL
Embed Code
Autoplay
Close
Playlist
Save
Close
Delete
Are you sure you want to delete this track?
Are you sure you want to delete this playlist?
Delete
Cancel
Login
Register
Remember me
Forgot your password?
Login
Facebook
Register
Facebook
0